मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,५८७ लेखाः सन्ति।
अग्निपुराणम् अष्टादशपुराणेषु अन्यतमः। संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम्। स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते। इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च। पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम्। तानि च सम्भाषणान्यग्निवसिष्ठयोः। पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः। अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते। प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम्। (अधिकवाचनाय »)
एकतामूर्तिः अर्थात् स्टैच्यू ऑफ यूनिटी गुजरातराज्ये नवनीर्मितः कश्चन प्रकल्पः (project) अस्ति। भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति। यतो हि लौहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लौहपुरुषस्य भारतैकतायाः विचाराः सन्ति । एकतामूर्तिप्रकल्पे लौहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्माणम जातम्। सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं जातम्। तस्मात् जलबन्धात् ३.२ कि.मी. दूरे विद्यते भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तेः निर्माणं जातम्। (अधिकवाचनाय »)
शङ्कराचार्येण स्थापिताः चत्वारः मठाः कुत्र कुत्र सन्ति ?
- उत्तरदिशि - बदरी - उत्तरप्रदेशे
- पश्चिमदिशि - द्वारका - गुजरातराज्ये
- दक्षिणदिशि - शृङ्गेरी - कर्णाटकराज्ये`
- पूर्वदिशि - पुरी - ओरिस्साराज्ये
- उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना
22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।
* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्
21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।
* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्
20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।
परं परोपकारार्थं यो जीवति स जीवति ॥
प्रपञ्चे विद्यमानाः सर्वे अपि मनुष्याः स्वहितं, स्वसुखं च सम्पादयन्ति। अतः आत्मनः निमित्तं सर्वः अपि जनः जीवति एव। परन्तु ये जनाः अन्येषां हितम्, अन्येषां सुखं च कामयमानाः तदर्थं जीवन्ति, तेषां जीवनमेव सार्थकं जीवनम् ! धन्यं जीवनम् ! परोपकाररहितं जीवनं तु निरर्थकमेव। |